Thursday 28 February 2013

भुवनमण्डले नवयुगमुदयतु


भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् 
सुविवेकमयं स्वानन्दमयम् ॥धृ॥

तमोमयं जन जीवनमधुना निष्क्रियताऽऽलस्य ग्रस्तम् 
रजोमयमिदं किंवा बहुधा क्रोध लोभमोहाभिहतम् 
भक्तिज्ञानकर्मविज्ञानै: भवतु सात्विकोद्योतमयम् ॥१॥

वह्निवायुजल बल विवर्धकं  पाञ्चभौतिकं विज्ञानम् 
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुर्वाणम् 
दीक्षुविकीर्णं मनुजकुलमिदं घटयतुचैक कुटुम्बमयम् ॥२॥

सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् 
भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् 
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥३॥

जीवे जीवे शिवस्यरूपं सदा भवयतु सेवायाम् 
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् 
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥४॥

No comments:

Post a Comment